Content

[ Accompanied by Rama and Lakshmana, Viswamitra reaches the hermitage of Kama at the confluence of Sarayu and Ganga.]

प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनि:।

अभ्यभाषत काकुत्स्थौ शयानौ पर्णसंस्तरे।।1.23.1।।

Translation

शर्वर्याम् when the night, प्रभातायाम् turned into day break, महामुनि: eminent ascetic, विश्वामित्र: Visvamitra, पर्णसंस्तरे in the bed of leaves, शयानौ lying down, काकुत्स्थौ Rama and Lakshmana, अभ्यभाषत spoke.

When the night turned into daybreak, the eminent ascetic Viswamitra, addressing the descendants of Kakutstha (Rama and Lakshmana) who were lying on a bed of leaves said:
Sanskrit Commentary by Nagesa Bhatta
प्रभातायामिति । पर्णसंस्तरे मृदुपर्णादिपरिकल्पिते शयनीये । पूर्वश्लोके तृणशयन इत्युपलक्षणं बोध्यम् ।। 1.23.1 ।।



कौसल्येति । हे राम, त्वया पुत्रेण कौसल्या सुपुत्रा शोभनपुत्रवती । अतस्तादृशस्य सुपुत्रस्य तवास्मिन्समये निद्रानुचिता । यतः पूर्वा सन्ध्या प्रवर्तते प्रातःसन्ध्या प्रवर्तते । अत उत्तिष्ठ । दैवंम् देवताध्यानम् । आह्निकम् शौचादिक्रिया ।। 1.23.2 ।।



स्नात्वा कृतोदकौ कृतार्घ्यदानौ । इदं तावत्पर्यन्तकर्तव्यक्रियामात्रोपलक्षणम् । परमं जपम् सावित्रीम् ।। 1.23.3 ।।



अभितस्थतुः । सम्मुखौ स्थितावित्यर्थः ।। 1.23.4 ।।



प्रयान्तौ गच्छन्तौ ।। 1.23.5 ।।



तत्र गङ्गासरयूसङ्गमप्रदेशे । तप्यताम् तपताम् । यक्छान्दसः । ऋषीणामाश्रमपदं ददृशाते इत्यनुकर्षः ।। 1.23.6 ।।



तम् परमरमणीयम् ।। 1.23.7 ।।



वसते वसति । तङ् छान्दसः ।। 1.23.8 ।।



प्रहस्य बालकवचनश्रवणजसन्तोषाद्धासः । सर्वज्ञो ऽप्येवं नाटयतीति वा । यस्य पूर्वो यस्य पूर्वकालाधिष्ठेयो ऽभूत्स श्रूयतामित्यन्वयः ।। 1.23.9 ।।



मूर्तिमाञ्छरीरधरः । समाहितम् समाहितचित्तम् । स्थाणुम् रुद्रम् ।। 1.23.10 ।।



कृतोद्वाहं समाधेः कृतव्युत्थानम् । कालोचितविलासदेशं गच्छन्तं देवेशं दुर्मेधाः कामो धर्षयामास चित्तविकारोत्पादनेनाभिभूतवान् । ततो महात्मना रुद्रेण ज्ञातापराधेन हुकृतः चक्षुषावध्यातो दृष्टश्चेत्युत्तरेणान्वयः ।। 1.23.11 ।।



व्यशीर्यन्त विशीर्णानि । सर्वगात्राणि सर्वे ऽवयवाः ।। 1.23.12 ।।



तत्र प्रसिद्धतरे ऽस्मिन्नाश्रमे । हतम् नष्टम् । हशब्दः प्रसिद्धौ ।। 1.23.13 ।।



ततो भयात्पलायमानो यत्र देशे स कामो ऽङ्गं मुमोच सो ऽङ्गविषयो ऽङ्गदेश इति विख्यात इति शेषः ।। 1.23.14 ।।



तस्य स्थाणोः । इमे मुनय इदानीमिह तपस्यन्तः । तस्य रुद्रस्य । पुरा पूर्वकालसन्तानपरम्परया शिष्याः । अत एव धर्मपराः । अत एव तेषां पापं न विद्यते ।। 1.23.15 ।।



सरितोर्गङ्गासरय्वोः ।। 1.23.16 ।।



स्नानादिना शुचयो भूत्वा पुण्यमाश्रममभिगच्छामहे । व्यत्ययात्तङ् । हे इति पृथक्पदं वा । परो युक्ततरः ।। 1.23.17 ।।



स्नाता इत्यादीनि तदाश्रममुनिविशेषणानि । तेषां संवदताम् तेषु संवदत्सु । तानदृष्ट्वापि तपोमहिमजातदीर्घत्ववता ऽत एव विप्रकृष्टार्थग्राहिणा चक्षुषा रामाद्यागमनं विज्ञायेत्युत्तरेणान्वयः ।। 1.23.18 ।।



आतिथ्यमतिथ्यर्हं भोजनादि ।। 1.23.19 ।।



प्रश्चाद्भगवतो ऽपि मनुष्यरूपधारित्वेन विश्वामित्रे गुरुत्वनाटनेन चादौ विश्वामित्रे ऽर्घ्यादि दत्त्वा पश्चाद्रामे ददुः । अभ्यरञ्जयन् । अडभाव आर्षः । तदाश्रमस्थानृषीनिति शेषः । यद्वा सत्कारं समनुप्राप्य तं प्रापय्य विश्वामित्रादींस्तदाश्रमस्था ऋषयो ऽभ्यरञ्जयन्नित्यर्थः ।। 1.23.20 ।।



अजपन्नदीतीरे । ते विश्वामित्राद्या ऋषयश्च । तद्वासिभिर्मुनिभिः सह स्वसाहित्येनानीताः संवेशनाय स्वाश्रमं प्रापिताः ।। 1.23.21 ।।



कामाश्रमपदे सर्वकामपरिपूरके भर्गाश्रमे ।। 1.23.22 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ।। 23 ।।