[Description of riches, comforts, etc of the subjects of the kingdom during Dasaratha's reign].
तस्यां पुर्यामयोध्यायां वेदवित्सर्वसङ्ग्रह: ।
दीर्घदर्शी महातेजा: पौरजानपदप्रिय: ।।1.6.1।।
इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी ।
महर्षिकल्पो राजर्षिस्त्रिषु लोकेषु विश्रुत: ।।1.6.2।।
बलवान्निहतामित्रो मित्रवान्विजितेन्द्रिय: ।
धनैश्च सङ्ग्रहैश्चान्यैश्शक्रवैश्रवणोपम: ।।1.6.3।।
यथा मनुर्महातेजा लोकस्य परिरक्षिता ।
तथा दशरथो राजा वसञ्जगदपालयत् ।। 1.6.4।।