[Dasaratha sends Sumantra to bring Rama again-- briefs him on certain matters and sends him -- Rama visits Kausalya and informs her about the coronation and seeks her blessings.]
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम्।।2.4.1।।
श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः।।2.4.2।।
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्सनिश्चयम्।।2.4.1।।
श्व एव पुष्यो भविताश्वोऽभिषेच्यस्तु मे सुतः।
रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः।।2.4.2।।