[Lakshmana pacifies Rama -- explains that destruction of the world is not proper -- initiates the search.]
तप्यमानं तथा रामं सीताहरणकर्शितम्।
लोकानामभवे युक्तं सांवर्तकमिवानलम्।।3.65.1।।
वीक्षमाणं धनुस्सज्यं निश्श्वसन्तं पुनः पुनः।
दग्धुकामं जगत्सर्वं युगान्ते च यथा हरम्।।3.65.2।।
अदृष्टपूर्वं सङ्क्रुद्धं दृष्ट्वा रामं तु लक्ष्मणः।
अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता।।3.65.3।।