[ Vibheeshana begins to advise the Rakshasas and Ravana. ]
ततोनिकुम्भोरभसस्सूर्यशत्रुर्महाबलः ।
सुप्तघ्नोयज्ञहारक्षोमहापार्श्वमहोदरौ ।।6.9.1।।
अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षस: ।
इन्द्रजिच्चमहातेजाबलवान्रावणात्मजः ।।6.9.2।।
प्रहस्तोऽथविरूपाक्षोवज्रदंष्ट्रोमहाबलः ।
धूम्राक्षश्चातिकायश्चदुर्मुखश्चैवराक्षसः ।।6.9.3।।
परिघान्पट्टिशान्प्रासान्शक्तिशूलपरश्वधान् ।
चापानिचसबाणानिखङ्गांश्चविपुलान्शितान् ।।6.9.4।।
प्रगृह्यपरमक्रुद्धास्समुत्पत्यचराक्षसाः ।
अब्रुवन्रावणंसर्वेप्रदीप्ताइवतेजसा ।।6.9.5।।