Content

तमुवाच महातेजा विश्वामित्रो महामुनि:।

श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्।।1.24.16।।

Translation

महातेजा: highly powerful, महामुनि: great sage, विश्वामित्र: Viswamitra, तम् addressing him, उवाच spoke, वत्स O Child, काकुत्स्थ Kakusthsa, एतत् दारुणं वनम् this dreadful forest, यस्य whose, श्रूयताम् let it be heard.

Viswamitra, the great sage radiating energy addressing Rama said, "O child of kakusthsa dynasty I shall tell you whose dreadful forest this is. Listen"
Sanskrit Commentary by Nagesa Bhatta
तत इति । नद्या गङ्गायाः ।। 1.24.1 ।।



उपस्थाप्यानाय्य ।। 1.24.2 ।।



राजपुत्रपुरस्कृत इति तृतीयातत्पुरुषः । तीर्त्वेति शेषः । अरिष्टं शुभं यथा भवति तथा । रिषेर्हिंसार्थत्वात् ।। 1.24.3 ।।



ततार तर्तुमुपक्रान्तः । सरितम् गङ्गाम् । सागरं गच्छति जलपूर्णत्वरूपस्वरूपं प्रापयति ताम् । अन्तर्भावितण्यर्थः । अगस्त्यशोषितस्य समुद्रस्य गङ्गया पूरणं कृतमिति प्रसिद्धेः ।। 1.24.4 ।।



तोयसंरम्भेण परस्परं तरङ्गसङ्घट्टक्षोभेण वर्धितमतिप्रवृद्धम् । निश्चयं सहज औपाधिको वेत्येतदन्यतरनिश्चयम् ।। 1.24.5 ।।



ज्ञातुकाम इत्यस्य जात इति शेषः ।। 1.24.6 ।।



भिद्यमानस्य परस्परसङ्घट्टमानस्य ।। 1.24.7 ।।



निश्चयम् निश्चयजनकहेतुम् ।। 1.24.8 ।।



तेन मनोनिर्मितत्वेन । तस्मात्सरसो या सुस्राव सेत्यन्वयः ।। 1.24.9 ।।



सरसो यौति प्रवर्तत इति सरयूः । सरःप्रवृत्तेति तद्योगनिर्वचनम् । पुण्यत्वे हेतुर्ब्रह्मसरश्च्युतत्वम् । तस्या अयम् । सन्धिरार्षः । या जाह्नवीमभिवर्तते तया सह सङ्गच्छते तस्या अयं शब्द इत्यर्थः ।। 1.24.10 ।।



ताभ्याम् सरयूगङ्गाभ्याम् ।। 1.24.11 ।।



विक्रमः पादविक्षेपः । घोरसङ्काशम् भयङ्करदर्शनम् ।। 1.24.12 ।।



अविप्रहतम् सार्थगमागमाभावादक्षुण्णम् । झिल्लिका कीटविशेषः ।। 1.24.13 ।।



भैरवैर्भयङ्करैः । श्वापदानि दुष्टमृगाः । दारुणारवैर्दारुणशब्दैः । शकुन्तैर्भासैः । शकुनैः सर्वपक्षिभिः । भैरवस्वनैर्वाश्यद्भिरतिभैरवं शब्दं कुर्वद्भिः ।। 1.24.14 ।।



शोभितम् युक्तम् । धवादयो वृक्षविशेषाः ।। 1.24.15 ।।



किं नु कुतो नु ।। 1.24.16 ।।



यस्य प्राणिनः स श्रूयतामित्यन्वयः । स्फीतौ समृद्धौ ।। 1.24.17 ।।



मलदाः करूषा इति बहुवचनं शब्दस्वभावकृतम् । देवनिर्माणेन देवयत्नेन निर्मितौ । मलेनाशुच्याचारेण ।। 1.24.18 ।।



क्षुधा बुभुक्षया । समभिप्लुतमित्यनुकृष्यते । ब्रह्महत्या वृत्रस्य ब्रह्मसन्तानत्वात् । देवा वस्वादयः ।। 1.24.19 ।।



कलशैर्गङ्गाजलपूर्णघटैः । प्रमोचयन्प्रामोचयन् । कारूषम् क्षुत् । दत्त्वा त्यक्त्वेत्यर्थः ।। 1.24.20 ।।



शरीरजमिति पूर्वान्वयि । प्रपेदिरे । देवा इति शेषः ।। 1.24.21 ।।



ततः । तदेत्यर्थः ।। 1.24.22 ।।



यस्मान्ममाङ्गमलधारिणौ तस्मात्ख्वायतिं गमिष्यत इति पूर्वेणान्वयः ।। 1.24.23 ।।



शक्रेण कृतां देशस्य पूजां दृष्ट्वा पाकशासनं साध्वित्यब्रुवन्निति पूर्वेणान्वयः ।। 1.24.24 ।।



कस्यचित्कियतः कालस्य । अपगम इति शेषः ।। 1.24.25 ।।



भद्रं त इति विश्वामित्रस्याशीर्वचनं बालकत्वेन तादृशयक्षिणीनामश्रवणेन त्रासो मा भूदिति । यद्वा ताटका नाम ते भद्रम् । प्रथमशौर्यस्थानत्वेन शौर्यप्रसिद्धिकरत्वरूपं भद्रत्वमस्या इति बोध्यम् ।। 1.24.2628 ।।



सेयम् । या विनाशयति सेत्यर्थः । आवृत्य निरुध्य । अर्धमतिक्रान्तमत्यर्धं तादृशे योजने ।। 1.24.29 ।।



यतश्चेदं ताटकावनमस्माभिर्गन्तव्यमत एव च हेतोर्हे राम, स्वबाहुबलमाश्रित्येमां जहि ।। 1.24.30 ।।



ननु स्त्री कथं हन्तव्या तत्राह मन्नियोगादिति । मदाज्ञया स्त्रीवधशङ्का त्यज । ईदृशम् ताटका ऽ ऽक्रान्तम् ।। 1.24.31 ।।



अद्यापि न निवर्तते । अत्र पूर्वस्थितो जन इति शेषः ।। 1.24.32 ।।



इति श्रीरामाभिरामे श्रीरामीये रामायणतिलके वाल्मीकीय आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ।। 24 ।।